|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.39. अध्यायः 039
Mahabharata - Drona Parva - Chapter Topics
दुश्शासनाभिमन्युसमागमः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-39-0x(4353)(46413)
द्वैधीभवति मे चित्तं शुचा तुष्ट्या च सञ्जय।
मम पुत्रस्य यत्नैन्यं सौभद्रः समवारयत्॥ 7-39-1(46414)
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः।
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह॥ 7-39-2(46415)
सञ्जय उवाच। 7-39-3x(4354)
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम्।
एकस्य च बहूनां च यथासीत्तुमुलो रणः॥ 7-39-3(46416)
अभिमन्युः कृतोत्साहः कृतोत्साहानरिन्दमान्।
रथस्थो रथिनः सर्वांस्तावकानभ्यवर्षयत्॥ 7-39-4(46417)
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्॥
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम्॥ 7-39-5(46418)
नानानृपान्नृपसुतान्सैन्यानि विविधानि च।
अलातचक्रवत्सर्वांश्चरन्बाणैः समार्पयत्॥ 7-39-6(46419)
निघ्नन्नमित्रान्सौभद्रः परमास्त्रैः प्रतापवान्।
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत॥ 7-39-7(46420)
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः।
समकम्पन्त सैन्यानि त्वदीयानि सहस्रशः॥ 7-39-8(46421)
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्।
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम्॥ 7-39-9(46422)
घटयन्निव मर्माणि पुत्रस्य तव भारत।
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम्॥ 7-39-10(46423)
द्रोण उवाच। 7-39-11x(4355)
एष गच्छति सौभद्रः पार्थानां प्रथितो युवा।
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम्॥ 7-39-11(46424)
नकुलं सहदेवं च भीमसेनं च पाण्डवम्।
बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा॥ 7-39-12(46425)
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम्।
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति॥ 7-39-13(46426)
सञ्जय उवाच। 7-39-14x(4356)
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः।
आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव॥ 7-39-14(46427)
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं नृपः।
दुःशासनं मद्रराजं तांस्तथाऽन्यान्महारथान्॥ 7-39-15(46428)
सर्वभूर्धाभिषिक्तानामाचार्यो ब्रह्मवित्तमः।
अर्जुनस्य सुतं मूढं नायं हन्तुमिहेच्छति॥ 7-39-16(46429)
न ह्यस्य समरे युद्ध्येदन्तकोऽप्याततायिनः।
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः॥ 7-39-17(46430)
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति।
शिष्याः पुत्राश्च दयितास्तदपत्यं च धर्मिणाम्॥ 7-39-18(46431)
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः।
आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम्॥ 7-39-19(46432)
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः।
संरब्धास्ते जिघांसन्तो भारद्वाजस्य पश्यतः॥ 7-39-20(46433)
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा।
अब्रवीत्कुरुशार्दूल दुर्योधनमिदं वचः॥ 7-39-21(46434)
अहमेनं हनिष्यामि महाराज ब्रवीमि ते।
मिषतां पाण्डु पुत्राणां पाञ्चालानां च पश्यताम्॥ 7-39-22(46435)
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम्।
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः॥ 7-39-23(46436)
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ।
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः॥ 7-39-24(46437)
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः।
एकाह्वा ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम्॥ 7-39-25(46438)
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव।
शिवेन मां ध्याहि राजन्नेष हन्मि रिपूंस्तव॥ 7-39-26(46439)
सञ्जय उवाच। 7-39-27x(4357)
एवमुक्त्वाऽनदद्राजन्पुत्रो दुःशासनस्तव।
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन्॥ 7-39-27(46440)
तमतिक्रुद्धमायान्तं तव पुत्रमरिंदमः।
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समार्पयत्॥ 7-39-28(46441)
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः।
अयोधयत सौभद्रमभिमन्युश्च तं रणे॥ 7-39-29(46442)
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्।
चरमाणावयुध्येतां रथशिक्षाविशारदौ॥ 7-39-30(46443)
अथ पणवमृदङ्गदुन्दुभीनां
क्रकचमहानकभेरिझर्झराणम्।
निनदमतिभृशं नराः प्रचक्रु--
र्लवणजलोद्भवसिंहनादमिश्रम्॥ ॥ 7-39-31(46444)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-39-17 अङ्गेत्यसूयायाम्॥ 5-39-18 धर्मिणामिति सोल्लुण्ठम्॥ 5-39-19 आत्मसंभावितः अहमेवेति सम्भावनामारूढः॥ 5-39-31 लवणजलोद्भवः शङ्खः॥ 5-39-39 एकोनचत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|